|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.74. अध्यायः 074
Mahabharata - Bhishma Parva - Chapter Topics
भूरिश्रवसा सात्यकिपुत्रदशकवधः ॥ 1 ॥ सात्यकिभूरिश्रवसोयुर्द्धम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-74-0x(4149)(41936)
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः।
विकृष्य चापं समरे भारसाहमनुत्तमम् ॥ 6-74-1(41937)
यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् ।
प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्।
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ॥ 6-74-2(41938)
तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः।
आददानस्य भूयश्च संदधानस्य चापरान् ॥ 6-74-3(41939)
क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ 6-74-4(41940)
तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः ।
रथानामयुतं तस्य प्रेषयामास भारत ॥ 6-74-5(41941)
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ 6-74-6(41942)
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः।
आससाद ततो वीरो भूरिश्रवसमाहवे॥ 6-74-7(41943)
स हि संदृश्य सेनां ते युयुधानेन पातिताम् ।
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ 6-74-8(41944)
इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः ।
सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ॥ 6-74-9(41945)
सहस्रशो माहाराज दर्शयन्पाणिलाघवम् ।
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥ 6-74-10(41946)
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।
विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ॥ 6-74-11(41947)
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ॥ 6-74-12(41948)
समासाद्य महेष्वासं भूरिश्रवसमाहवे।
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ 6-74-13(41949)
भोभो कौरवादायाद सहास्माभिर्महाबल ।
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥ 6-74-14(41950)
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे।
वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥ 6-74-15(41951)
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ॥ 6-74-16(41952)
साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ 6-74-17(41953)
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥ 6-74-18(41954)
सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत्।
एकस्य च बहूनां च समेतानां रणाजिरे ॥ 6-74-19(41955)
तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् ।
प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥ 6-74-20(41956)
तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् ।
असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ॥ 6-74-21(41957)
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।
यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ॥ 6-74-22(41958)
विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ 6-74-23(41959)
समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
चिच्छेद समरे राजन्युध्यमानो महारथैः ॥ 6-74-24(41960)
अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः ।
चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ॥ 6-74-25(41961)
ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । 6-74-26bतान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ॥ 6-74-26(41962)
वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात्।
रथं रथेन समरे पीडयित्वा महाबलौ ॥ 6-74-27(41963)
तावन्योन्यं हि समरे निहत्य रथवाजिनः ।
विरथावभिवल्गन्तौ समेयातां महारथौ ॥ 6-74-28(41964)
प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ ।
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ 6-74-29(41965)
असह्यमसियुद्धाय भूरिश्रवसमाहवे।
मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ॥ 6-74-30(41966)
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ 6-74-31(41967)
तवापि तनयो राजन्भूरिश्रवसमाहवे।
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ 6-74-32(41968)
तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम्।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ 6-74-33(41969)
लोहितायति चादित्ये त्वरमाणो धनञ्जयः ।
पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ 6-74-34(41970)
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
संप्राप्यैव गता नाशं शलभा इव पावकम् ॥ 6-74-35(41971)
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ 6-74-36(41972)
एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति।
सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥ 6-74-37(41973)
अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ 6-74-38(41974)
पाण्डवानां कुरूणां च परस्परसमागमे।
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ 6-74-39(41975)
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत।
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ॥ ॥ 6-74-40(41976)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प़ञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|